________________
अथास्मच्छब्दरूपाङ्कितनवस्तवी ।
॥ अर्हम् ॥ सुरासुरेन्द्रौ निस्तन्द्रौ कल्याणसमयागतौ । हर्षोन्नद्रौ जिनेन्द्राऽग्रे विज्ञप्तिं तनुतो यथा ॥ १ ॥ एवं विधर्द्धिप्राप्ताहमर्हणा पदयोस्तव । विनयावहिताऽऽवां त्वां निषेवन्ते न के नराः ॥२॥ येन ब्रह्मादयोऽप्येते किंकरीभावमापिताः । विगोपि तावया तेन रागेण न जितो भवान् ॥ ३ ॥ भूयो भ्रमितमह्यं त्वं परतीर्थिकवादिने । विश्वाच्य रोचसे नैव घूकायार्क इव प्रभो ||४|| प्रबोधितावद्भावत्कविशुद्धागमभाषितात् ।
प्रबुद्धाः साधयामासुर्महानन्दपदं न के ॥ ५ ॥ निष्पत्त्युद्यतमम ते समवसृतेर्भुवि समं समासीनाः । बाधा न बुद्धिरे जन्तुकोटिकोट्यो ऽपि चित्रमिदम् ॥६॥ जघनविपुला । अनन्तदर्शनज्ञानवीर्यानन्दमयात्मनि ।
तृणप्रायायि पदे परमेऽवस्थितो जय ॥ ७ ॥ अस्मच्छन्दद्विवचोऽन्यपदैकवचः प्रपञ्चरुचिरेण ।
१३