________________
युष्मच्छन्दन वस्तवी |
११
छायास्थितयुष्माभिश्छात्रैः पात्रीभवेन्न मुदाम् ॥३॥ मध्यासितयुष्मभ्यं पर्षद्भ्यो द्वादशभ्य इह भव्यः । परिमुक्तनित्यवैरादिभ्यः श्लाघेत को न जनः ॥ ४ ॥ संसधनुकृतयुष्मन्मूर्त्तिभ्योऽन्याभ्य इह सुरकृताभ्यः। यौष्माकमूलमूर्त्तेर्भेदं न विवेद विदुरोऽपि ॥ ५ ॥ अन्तरमृगेन्द्रविष्टरनिविष्टयुष्माकमुत्तमाः पुरुषाः । प्राकाराणां त्रितयीं रम्यां के नो दिदृक्षन्ते ॥ ६ ॥ संमुग्वनिविष्टयुष्मास्वनल्पसोपानपङ्किषु सुखेन | आरे हन् समवसृतौ बालो वृद्धोऽपि न श्राम्येत् ॥७॥ ज्ञानातिशयगुण भरतैरावतविदेहसर्वजिनाः । अन्योऽन्यतुलितयूयं मम यूयं दत्त शिवसौख्यम् ॥८॥
युष्मत्पदान्यपदसत्कबहुत्वगर्भ
मुग्धोक्तिभिः स्तुतिपथङ्गमिता मयेत्थम् । श्रीज्ञानसागरसमाः समतीर्थनाथाः
श्रीसोमसुन्दरगुणा ददतु प्रसादम् ॥ ९ ॥
इति शुष्मच्छब्दबहुव्रीहिबहुवचनगर्भः सर्वजिनस्तवो नवमः । एवं व समाप्ता युष्मच्छन्द त्रिषष्टिरूपरचनाञ्चिता क्षुल्लादिबुद्धिव्युत्पत्तये तपागच्छाधिराज श्री सोमसुन्दरसूरिभिर्विरचिता नवस्तवी ॥