________________
ॐ नमः सर्वज्ञाय। श्रीसुमतिकल्लोलरचितम् श्रीप्रथमजिनस्तवनम् ।
श्रीआदिनाथं नतनाकिनाथं
लक्ष्म्या सनाथं कृतपापमाथम् । संवेगतान्यत्कृतहेमहीर
संसारदावानलदाहनीरम् ॥ १॥ निर्वाणयोषिद्घनबद्धरागं
सश्रीकभालं गदशाखिनागम् । संस्तौमि संत्रासितकर्मवीरं सम्मोहधूलीहरणे समीरम् ॥ २ ॥
॥ युग्मम् ॥ विशारदोद्गीतगुणप्रतानमीडे वृषाङ्क विगताभिमानम्। सब्रह्मशस्त्रापहताशरीरं मायारसादारणसारसीरम् ॥३॥ कल्याणकन्दोदयकन्दकल्प
सहाञ्छितार्थेकविधानकल्पम् ।