________________
५४ अनुभूतसिद्धसारस्वतस्तवः ।
आप्तोक्तियुक्तिसन्मुक्ताफलानन्यपरीक्षकः ॥ ३ ॥ तत्पदाम्बुजभृङ्गेन सेवाखादविदा खयम् । शिष्येण भावरत्वेन स्तुतेष्टीका विनिर्मिता ॥ ४ ॥ अक्षषडश्वभूमाने वत्सरेऽत्रेषमासके । चतुर्दश्यां तिथौ शुक्र पूर्णीभूतेऽष्टतेजसः ॥५॥ इति प्रशस्तिः सम्पूर्णा ॥
॥ अहम् ॥ कलमरालविहङ्गमवाहना सितदुकूलविभूषणलेपना। प्रणतभूमिरुहामृतसारिणी प्रवरदेहविभाभरधारिणी।। अमृतपूर्णकमण्डलुधारिणी त्रिदशदानवमानवसेविता। भगवती परमैव सरस्वती मम पुनातु सदा नयनाम्बुजम् जिनपतिप्रथिताखिलवाङ्मयी
गणधराननमण्डपनर्तकी । गुरुमुखाम्बुजखेलनहंसिका
विजयते जगति श्रुतदेवता ॥ ३ ॥ अमृतदीधितिबिम्बसमानानां
त्रिजगतीजननिर्मितमानानाम् । नवसरसामृतवीचिसरस्वती
प्रमुदितः प्रणमामि सरस्वतीम् ॥४॥