SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्रीशान्तिनाथस्तुतिः। ५३ पुनःसा० किं कुर्वती सती आभान्ती सती। आभान्तीति शतृप्रत्यये ईपि सिद्धम्। केनाम्भोजेन कमलेन करणभूतेन । कथं भूतेन कमलेन हस्तस्थेन हस्तगतेन ॥ अथवोपलक्षणेतृतीयेति ॥ ४ ॥ ___ इति श्रीशान्तिजिनस्तुतिटीका समाप्ता। इयं स्तुतिः श्रीललितप्रभसूरिभराम्नायपूर्वकैः कालापेक्षया विनिर्मिता । यतोऽत्र स्तुतौ पादे पादे मगणपञ्चकाः सर्वगुरवो वर्णाः सन्ति ततः पादचतुकमीलने षष्ट्यक्षरप्रमिता एकास्तुतिर्भवति तत एकास्तुतिःषष्टिवारमथवा स्तुतिचतुष्कं पञ्चदशवारं छन्दउक्तयतिभिः पठ्यते तदैका घटिका भवति । इष्टकालेन क्रियादिकं शुभकार्य स्यादित्याम्नायः॥ श्रीवर्द्धमानतः पारंपर्यपट्टोदयाचले। गोभिः सूर्योऽभवच्छीमल्ललितप्रभसूरिराट् ॥ १ ॥ तत्पट्टासनभूषाश्रीविनयप्रभसूरिराट् । राकापक्षपतिज॑ज्ञे जैनक्रियाकलाधरः ॥२॥ तत्पट्टे जयति श्रीमन्महिमाप्रभसूरिराट् ।
SR No.006111
Book TitleJain Stotra Sangraha Part 01
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy