________________
५२ श्रीललितप्रभसूरिविरचिता ___ अस्तापायमिति। सा प्रसिद्धा निर्वाणीनामदेवी मे मह्यमृद्धिं संपत्तिं दद्यात्प्रयच्छेत् । अत्र च शब्दो लुप्तो द्रष्टव्यस्तेन च पुनहिं दद्यादातोऽस्या ऋद्धेरेव सन्ततिभूतामिति । च पुनः सिद्धिं दद्यादऽतोऽस्या ऋद्धेरेव फलपरिपाकतामिति ॥ कथं भूता सा किं कुर्वाणा बिभ्राणा दधाना के प्रति कायं शरीरं वैक्रियात्मकमित्यर्थः । कथं भूतं कायमऽस्तापायं अस्ता गलिता अपाया अशुभानि यस्मात्सोऽस्तापायस्तम्। पुनः कथं भूतं कायं सौम्यं सोमखभावम् । पुनः कथं भूतं कायं गौरच्छायं गौरी शिवदा च्छाया कान्तिर्यस्य स गौरच्छायस्तम् । पुनः कथं भूता सा निर्वाणी किं कुर्वाणा भक्ति सेवां तन्वाना विस्तार विदधाना कस्य श्रीशान्तः शान्तिजिनस्य । पुनः कथं भूता सा. किं विदधाना पद्मं कमलं पञ्चं रचनाविशेषमिति कुर्वाणा । अथवा पद्मं तदेव पत्रमासनं कुर्वाणा कमलासनेति । पुनः कथं भूता सा. किं कुर्वाणा विघ्नौघं प्रत्यूहव्यूहं भिन्दाना भञ्जती ।