________________
श्रीशान्तिनाथस्तुतिः । न्तमत्यर्थ गाढं कुज्ञानध्वान्तं प्रतिविध्वंसन्तं विनाशयन्तम् ।कुज्ञानं मिथ्यात्वज्ञानं तदेव ध्वान्तमन्धकारं कुज्ञानध्वान्तं तत् । कथं भूतं कुज्ञानध्वन्तं चित्तस्थं मनोगतम् । पुनः कथं भूतं सिद्धान्तं नि.
सैकान्तं नित्योऽपरैरखण्डित एकोऽद्वितीय एवंविधोऽन्तो निर्णयोयस्मिन् स तमऽथवा नित्या ध्रौव्यात्मका एक औत्पत्तिका अन्ता विनाशात्मकाः पदार्था यस्मिन्स तम् । पुनः कथं भूतं सिद्धान्तं क्षिप्तैकान्तं क्षिप्ता निराकृता एकान्ता दुर्णया एकान्तवादिमतानि येन स तम् ॥ ३ ॥ ___ अस्तापायं सौम्यं गौरच्छायं कार्य बिभ्राणा श्रीशान्तेर्भक्तिं तन्वाना पद्म पत्रं कुर्वाणा। विघ्नौघमिन्दाना हस्तस्थेनाम्भोजेनाभान्तीसा निर्वाणीदेवी दद्यादृद्धिं वृद्धि सिद्धिं मे॥४॥
इति श्रीशान्तिजिनस्तुतिरियं कृतिः श्रीमल्ललितपभसार पूज्यानाम् ।