________________
अनुभूतसिद्धसारस्वतस्तवः। ५५ विततकेतकपत्रविलोचने विहितसंसृतिदुःकृतमोचने।
धवलपक्षविहङ्गमलाञ्च्छिते __जय सरस्वति पूरितवाञ्च्छिते ॥५॥ भवदनुग्रहलेशतरङ्गिता
स्तदुचितं प्रवदन्ति विपश्चितः। नृपसभासु यतः कमलाबला
कुचकलाललनानि वितन्वते ॥ ६॥ गतधना अपि हि त्वदनुग्रहात्
कलितकोमलवाक्यसुधोर्मयः। चकितबालकुरङ्गाविलोचना
जनमनांसि हरन्तितरां नराः ॥७॥ करसरोरुहखेलनचश्चला
तत्र विभाति वरा जपमालिका । श्रुतपयोनिधिमध्यविकस्वरो
ज्ज्वलतरङ्गकदाग्रहसाग्रहा ॥ ८ ॥ द्विरदकसरिमारिभुजङ्गमा
सहनतस्करराजरुजां भयम् । तव गुणावलिगानतरङ्गिणां
न भविनां भवति श्रुतदेवते ॥ ९ ॥