________________
५६ अनुभूतसिद्धसारस्वतस्तवः । __ॐ ह्रीं क्लीं ब्ली ततः श्री
तदनु हसकलहीमथो ऐं नमोऽन्ने लक्षं साक्षाज्जपेद्यः करसमविधिना सत्तपा ब्रह्मचारी॥ निर्यान्ती चन्द्रबिम्बात्
कलयति मनसा खां जगञ्चन्द्रिकामा सोऽत्यर्थं वह्निकुण्डे विहितघृतहुतिः स्याद्दशांशेन विद्वान् रेरे लक्षणकाव्यनाटककथाचम्पूसमालोकने कायासं वितनोषि बालिश मुधा किं नम्रवक्ताम्बुजः। भक्याऽऽराधयमन्त्रराजमहसा तेनानिशं भारती येन वं कवितावितानसविता द्वैतप्रबुद्धायसे॥११॥ चञ्चच्चन्द्रसुखी प्रसिद्धमहिमा स्वाच्छन्द्यराज्यप्रदा नायासेन सुरासुरेश्वरगणैरभ्यार्थता भक्तितः। देवी संस्तुतवैभवा मलयजालेपाङ्गरत्नद्युतिः सा मां मातु सरस्वती भगवती त्रैलोक्यसञ्जीविनी।। स्तवमेतदनेकगुणान्वितं पठति यो भविकः प्रमनाः प्रगे स सहसा मधुर्वचनामृतैर्नृपगणानपि रञ्जयति स्फुटम्
इत्यनुभूतसिद्धसारस्वतस्तवः।