SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ श्रीविनयविजयोपाध्यायविरचिता पं०-श्रीगम्भीरविजयगणिनिर्मित टीकोपेता नयकर्णिका। वर्द्धमानं स्तुमः सर्वनयनद्यर्णवागमम् । संक्षेपतस्तदुन्नीतनयभेदानुवादतः॥१॥ _ नीयन्ते प्राप्यन्ते सदंशाङ्गीकारेणेतरांशौदासीन्यतया वस्तुबोधमार्ग यैस्ते नयाः नैगमादयः सर्वे च तं नयाश्च सर्वनयास्त एव नद्यः सरितस्तासामर्ण वस्समुद्रतुल्यः आगमो वाक्पथो यस्य स तथा तं बईमानं चरमजिनवरं वयं स्तुमः स्तुतिविषयी कुर्म कुतः कस्मात् तदुन्नीतनयभेदानुवादतः तत्तस्य श्रीवर्धमानस्य उत्प्राबल्येन नीताः वचनरूपेण प्राप्ताः ये नयानां भेदाः विशेषास्तेषामनुवादतः कथितस्यैव यत्कथनं तदनुवादस्तस्मादनुवादतः कुर्मइति शेषः कथं संक्षेपतोऽल्पविस्तरत इति ॥१॥
SR No.006111
Book TitleJain Stotra Sangraha Part 01
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy