________________
५८ श्रीविनयविजयोपाध्यायविरचिता
नैगमः संग्रहश्चैव व्यवहारर्जुसूत्रको। शब्दः समभिरूद्वैवंभूतौ चेति नयाः स्मृताः॥२॥
नैगमेति।नएको गमो विकल्पो यस्य स नैगमः पृथक् पृथक् सामान्यविशेषयोर्ग्रहणात ।१ । संगृ. हाति विशेषान् सामान्यतया सत्तायां क्रोडीकरोति यः सः संग्रहः ।२। वि विशेषतथैव सामान्य अवहरति मन्यते योऽसौ व्यवहारः।३। ऋजु वर्तमानमेव सूत्रयति वस्तुतया विकल्पयति यः स ऋजुसूत्रकः । ४ । इन्द्वे व्यवहारर्जुमूत्रकौ । ४ । काललिङ्गवचनैर्वाचकेन शब्देन समं तुल्यं पर्यायभेदेऽपि एकमेव वाच्यं मन्यमानः शन्दो नयः।५। सं सम्यक्प्रकारेण यथापर्यायैरारूढं अर्थ तथैव भिन्नवाच्यं मन्यमानः समभिरूढो नयः ।६। भूतशब्दोऽत्र तुल्यवाची एवं यथा वाचके शब्दे योव्युत्पत्तिरूपो विद्यमानोऽर्थोऽस्ति तथाभुततत्तुल्याऽर्थक्रियाकारीणमेव वस्तु वस्तुवन्मन्यमान एवं