SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ नयकर्णिका | ५९ भुतो नयः इन् द्विवचनं इत्यमुना प्रकारेण हे विभो त्वया नयाः स्मृताः स्वागमे कथिता इति शेषः॥ २ ॥ अर्थाः सर्वेऽपि सामान्यविशेषोभयत्मकाः । सामान्यं तत्र जात्यादि विशेषाव विभेदकाः ॥ ३ ॥ अर्थ इति सर्वेऽपि निर्विशेषाः अर्थाः जीवादयः पदार्थाः सामान्यं च विशेषश्च तावेव सामान्यविशेषौ उभौ अवयवौ आत्मा स्वरूपं येषां ते सामान्यविशेषोभयात्मकाः सन्ति नान्यथा इति त्वया प्रति पादितम् । तत्र तयोर्द्वयोर्मध्ये यद्वस्तुनो जात्यादिकं रूपं तत्सामान्यं जातिर्जीवत्व अजीवत्वरूपा सा आदिर्यस्य तत् जात्यादि आदिशब्दात् द्रव्यत्वप्रमेयत्वादयो ग्राह्याः वि विशेषेण भेदकाः पृथक्त्वस्य ज्ञापका ये चेतनत्व अचेतनत्वादयो ऽसाधारणरूपा विशेषधमीस्ते त्वया विभेदकाः विशेषाः प्रोक्ता इत्यर्थः ॥ ३ ॥ ऐक्यबुद्धिर्घटशते भवेत्सामान्यधर्मतः । विशेषाञ्च निजं निजं लक्षयन्ति घटं जनाः४
SR No.006111
Book TitleJain Stotra Sangraha Part 01
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy