SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ६. श्रीविनयविजयोपाध्यायविरचिता हे विभो त्वदुक्तसामान्यधर्मतः एकाकारप्रतीतिः एकशब्दवाच्यता सामान्यं जीवत्वघटत्वचेतनत्वादिकं सामान्यमेव धर्मः सामान्यधर्मस्तस्मात् घटशतेऽपि घटानां शतं घटशतं तस्मिन्नपि एका कारा या बुद्धिर्मतिःसा जाता यस्य स ऐक्यबुद्धिरीदृशो जनो भवेत् त्वदुक्तसामान्यधर्मतः घटशते ऽपि घटत्वंलक्षयेदिति भावः। च पुनः विशेषात् त्वदुक्तविशेषधर्मतः जनाः सर्वे नृसुरादयः प्राणिनो निजं निजं वकीयं स्वकीयं रक्तपीतवर्णादिविशेषणविशिष्टं घटं लक्षयन्तीत्यर्थः समुदायमध्येऽपि भेदकलक्षणैर्विभिद्य गृह्णन्ति न मुह्यन्तीति संमोहहारी महांस्तवोपकारः ॥ ४॥ नैगमो मन्यते वस्तु तदेतदुभयात्मकम्। निर्विशेषं न सामान्यं विशेषोऽपि न तद्विना ॥५॥ ___ तदेतत्त्वदुक्तपूर्वो नैगमो नैगमनामा नयः उभयात्मकं वस्तु मन्यते उभौ द्वौ सामान्यविशेषौ
SR No.006111
Book TitleJain Stotra Sangraha Part 01
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy