SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ नयकर्णिका। अवयवौ आत्मा स्वरूपं यस्य वस्तुनस्तदुभयात्मकं तत्तादृग्रूपं वस्तु पदार्थ मन्यते स्वीकरोति । कुतः त्वदाज्ञायां निर्विशेषं सामान्यं न निर्गतो दूरीभूतो विशेषो विशेषणं पर्यायो वा यस्य तन्निर्विशेषं ईदृग् रूपं सामान्यं न विद्यते तद्विना सामान्यं विशेष्यं वा द्रव्य विनारहितो विशेषो न विद्यते ऽतः उभयात्मकं गृह्णाति तर्हि सम्यग्दृष्टिरयमिति चेन्न अयं हि द्रव्यं पर्यायं च द्वयमपि सामान्यविशेषयुक्तं मन्यते ततो नायं सम्यग्दृष्टिरित्यर्थः ॥५॥ संग्रहोमन्यतेवस्तुसामान्यात्मकमेव हि।सामान्यव्यतिरिक्तोऽस्ति न विशेषः खपुष्पवत् ॥६॥ संग्रहः संग्रहनामा नयस्तु सामान्यं द्रव्यसत्तामात्रं जातिमात्रं वा यत्चत्सामान्यं तदेवात्मा स्वरूपं यस्य तत्तथा तहस्तु एव वस्तुतया मन्यते कस्माद्धि यस्मात् सामान्यव्यतिरिक्तः सामान्यात्मथभूतो विशेषो नास्ति न विद्यते तद्विना विशेषः
SR No.006111
Book TitleJain Stotra Sangraha Part 01
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy