________________
श्री सुमतिकल्लोलरचितं
॥ त्रिभिः कुलकम् ॥
सत्कारुण्यामृतरससृतं पावनं सद्विकारं हंसानां ते प्रवचनमिदं मानसाभं जिनेश । सेवाम्यद्धा सकमलमलं पापतापापहे
११०
बोधागाधं सुपदपदवीनीरपूराभिरामम् ॥९॥ तावच्छीतः शिशिरकिरणो गाङ्गमम्भश्च हृद्यं
पीयूषं वाऽविरलसुखदं तापहृत्तावदेव । लब्धं नार्हत्प्रवचनसरोऽन्तः पवित्रं विपत्रं
जीवाहिंसाऽविरललहरीसङ्गमागाह देहम् ॥१०॥ लक्ष्मीस्थानं शमदमकरं नीतिसत्सिन्धुपूरं
सम्यग्बोधाप्रतिमतरणीलब्धसत्तत्त्वरत्नम् । श्रीस्याद्वादाविरलधवलोल्लासिडिण्डीरपिण्डं
चूलावेलं गुरुगममणीसङ्कुलं दूरपारम् ॥११॥ मन्दैर्ज्ञेयं न वरमनिभं साधुनिर्य्यामगम्यं
कल्याणाभ प्रथमजिनराट् नाभिराजाङ्गजात । सूक्ष्मार्थानप्रकटनरवे ते नताशेषलेख
सारं वीरागमजलनिधिं सादरं साधु सेवे ॥१२॥