SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ श्रीजैनधर्मवरसंस्तवनम् । ४३ सोऽस्याऽभवत्प्रतिभवं भवदुःखहेतुः ॥३३॥ सङ्घाधिपत्यतिलकं ननु ये वहन्तः साधर्मिके सततदत्तबराशना ये । मुक्तिं व्रजन्ति लघु ते नितरां भजन्तः पादद्वयं तव विभो भुवि जन्मभाजः ॥३४॥ शीलं कलङ्कतिमिरावलिहेलिकेलि विस्तीर्णविश्ववलये कृतकीर्त्तिखेलम् । मर्त्यो दधाति हृदि यः प्रवरस्य तस्य किंवा विपद्विषधरी सविधं समेति ॥ ३५ ॥ ब्राह्म्यादिका विमलशीलविभूषणाढ्याः सत्यो हि सन्ति बहवो भवितार एव । तासां तु नामजपनेन जिनेश पूतो जातो निकेतनमहं मथिताश यानाम्॥३६॥ शीताहृतिर्ज्जलधिलङ्घनमाहवश्व रक्षोवधः प्रतिहृतिर्ज्वलनप्रवेशः । पुण्या यतो विमलशीलतया पदार्थाः प्रोद्यत्प्रबन्धगतयः कथमन्यथैते ॥३७॥
SR No.006111
Book TitleJain Stotra Sangraha Part 01
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy