________________
॥ अर्हम् ॥ श्रीभावप्रभसूरिविरचितं श्रीजैनधर्मवरसंस्तवनम् ।
कल्याणमन्दिरमिमं कुरु दानमुख्यं धर्म चतुर्विधमनश्वरसौख्यहेतुम् । सम्यक्त्वभूषिततमं भवभृद्भवाब्धौ
पोतायमानमभिनम्यजिनेश्वरस्य ॥ १ ॥
हिंसादिदोषरहितं सहितं शमाद्यै
घतिक्षयान्निगदितं महितं महेन्द्रैः ।
स्वर्गापवर्गफलितं कलितं विवेकै
स्तस्याहमेव किल संस्तवनं करिष्ये ॥ २ ॥ ॥ युग्मम् ॥
दानं द्विधाभयसुपात्रगतं सुपोष्यम् मुक्त्यै कृपादिपदतस्त्रिविधं तु भुक्त्यै । जैनोऽत्र वेत्ति न परो नहि नव्यनेत्रो
रूपं प्ररूपयति किं किल धर्मरश्मेः ॥३॥