________________
साधारणजिनस्तवनम् । निःशेषकर्मक्षयहेतुरत्र ॥ ३० ॥ भक्त्या स्तुता अपि परे परया परेभ्यो
मुक्ति जिनेन्द्र ददते न कथंचनापि । सिक्ताः सुधारसघटैरपि निम्बवृक्षा
विश्राणयन्ति नहि चूतफलं कदाचित॥३१॥ भवजलनिधिमध्यान्नाथ निस्तार्य कार्यः
शिवनगरकुटुम्बीनिर्गुणोऽपि त्वयाहम। नहि गुणमगुणं वा संश्रितानां महान्तो
निरुपमकरुणाः सर्वथा चिन्तयन्ति ॥३२॥ प्राप्तस्त्वं बहुभिः शुभैस्त्रिजगतश्चूडामणिदेवता निर्वाणप्रतिभूरसावपि गुरुः श्रीहेमचन्द्रप्रमुः । तन्नातः परमस्ति वस्तुकिमपि स्वामिन् यदभ्यर्थये किन्तु त्वद्वचनादरःप्रतिभवंस्तावईमानो मम॥३३॥
इति साधारणजिनस्तवनम् ।