________________
३६
श्रीभावप्रभसूरिविरचितम्
पारापतं धृतमते बत शान्तिनाथः श्येनाद्ररक्ष गतजन्मनि ते तदीयाः । गण्या गुणा गुरुकृपोज्ज्वलिताः कथं भ्युमत केन जलधेर्नतु रत्नराशिः ॥ ४ ॥ संरक्षितो गजभवे शशको हि येन
मेघाभिधेन मगधाधिपदेहजेन । माहात्म्यमानमिह तस्य करोतु को वा विस्तीर्णतां कथयति स्वधियाम्बुराशेः ॥५॥ मांसं समर्धमधुनेति वचो निशम्य
तस्याप्युपायमभयेन विधाय चोक्ताः । कुर्वन्ति तां नहि ययाहह राजलोकाजल्पन्ति वा निजगिरा ननु पक्षिणोऽपि ॥६॥
सद्दृष्टिपूर्वककृतांहतियुग्ममस्तु
AO
हे भव्य भव्यतरमन्यदपि प्रधानम् । जन्तून् करोति सुखिनस्तपतापतप्तान्
प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ॥७॥ वीराय विश्वगुरवेऽकृत चन्दना यो