SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ श्रीसोमसुन्दरमरिविरचिता । युष्मत्पदान्यपदगद्विवचनगर्भोक्तियुक्तिरम्यण । स्तवनेन संस्तुतौ स्तां पार्श्वसुपाचौं प्रसन्नौ मे ॥६॥ इति युष्पच्छब्दबहुव्रीहिद्विवचनगर्भः श्रीपार्थसुपार्श्वस्तवः पञ्चमः। ॥ अर्हम् ॥ कल्पद्रुचिन्तामणिकामधेनु मुख्यार्थसाधिकपत्प्रणामान् । जिनांस्त्रीलोकीजनितांहिपूजान् भूजानिवंशप्रभवान्नुवामि ॥ १॥ स्थितनामद्रव्याद्यात्मकयुष्मां रोदसी बुधश्लाघ्ये । तुष्यन्ति गीतयुष्मां न के नराः किंनरौ श्रुत्वा ॥२॥ आशातितयुष्माभ्यां स्त्रीनृभ्यां लभ्यते न किं दुःखम् । आराधितयुष्माभ्यामभ्यायान्ति स्वयंवराः कमलाः ॥३ पथिषु स्मृतयुष्माभ्यां पलायते निखिलभीतिरातिदूरम्। पित्रोः सुत्रामाऽपि प्रणमति स्तुतयुष्मयोः पादौ ॥४॥ युष्मास्विव मम भक्तिः स्वात्मैकत्वाप्तयुष्मयोभूयात् । युष्मद्वहुवचनान्यद्वित्वोक्त्यैवं जिनान्तता ॥५॥
SR No.006111
Book TitleJain Stotra Sangraha Part 01
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy