________________
युष्मच्छब्दनवस्तवी। अष्टापदाद्योः केषां न सतां निविशते मनः ॥६॥ युष्मत्पदैकवचनान्यपदद्विवचनवचोविरचनेन । स्तुत इति मया प्रदेयाः प्रवचनचातुर्यमाद्यार्हन् ॥७॥ इति युष्पदेकवचनबहुव्रीहिद्विवचनप्रयोगमुभगः
श्रीऋषभस्तवस्तुरीयः।
॥ अर्हम् ॥ पार्श्वसुपा भिख्यौ फणमणिघृणिगणविभासिताकाशौ स्तोष्ये ऋभुक्षिमुख्यस्तुतपदपद्मौ जिनौ भक्त्या ॥१॥ स्यातां प्रमोदपुष्टया दृष्टयुवां स्त्रीनरौ विमलदृष्टी । मधुरस्वरगीतयुवां वाग्माधुर्य सदाऽभ्येति ॥ २॥ उपासितयुवाभ्यां च लभ्यते भुवनेशता। भक्त्या प्रणतयुवाभ्यां वासवोऽपि नमस्यति ॥३॥ ऊरीकृतयुवाभ्यां नो दूरे लोकाग्रगं पदम् । सुप्रभूभूतयुवयोर्दासायन्ते सुरद्रवः ॥ ४ ॥
मनसि न्यस्तयुवयोर्लसन्त्यखिलसपम्दः । विभक्तिसप्तकेनैवं स्तुतौ श्रीजिननायकौ ॥ ५ ॥ चतुर्भिस्त्रीनरानुवृत्या सम्बदैः कलापकम् ।