________________
श्रीसोमसुन्दरसूरिविरचिता। संस्तुत्य भक्तिभरतो वृषभादिमान् श्रीवीरान्तिमान् जिनपतीनिति तीतदोषान् । श्रीज्ञानसागरगतप्रवरार्थसार्थलीलावगाहनकलाबलमेव याचे ॥ ७ ॥ इति युष्मत्पदबहुवचनान्यपदैकवचनगर्भः साधारण
जिनस्तवस्तृनीयः ।
॥अहम् ॥ कृपया प्रकटीकृताखिलव्यवहारोत्तमधर्मसत्पथम् । प्रथमं जिननायकं मुदा विनयेन स्तुतिकर्मतां नये। श्रुतत्वां मे श्रुती धन्ये दृष्टत्वां चक्षुषी स्तुवे । कराभ्यां चर्चितत्वाभ्यां कृताऽर्थोऽस्मि जिनेश्वरः ॥२॥ अभितः कृपाणधाराप्रतिफलनवशत्रिरूपितत्वाभ्याम् । त्वद्भक्त्या धरणेन्द्रो नमिविनमिभ्यामदाद् विद्या॥३॥ जटाभ्यां शोभितस्वर्णवर्णत्वाभ्या तवासयोः। श्रीर्मेरोः पार्श्वयोर्नीलवनालीभ्यामिवाऽभवत् ॥ ४॥
द्रव्यभावतमोरुद्धदृष्टेर्दिष्टया मम प्रभो सूर्येन्डोरुदयो भूयात् स्वविभादर्शितत्क्योः ॥५॥ जन्मस्नात्रमहानन्दपदलाभार्हितत्वयोः ।