________________
श्रीसोमसुन्दरसूरिविरचिता ।
व्याख्यानोद्युक्तयुष्माभ्यां धर्माभ्यां भव्य जन्तवः । तीर्णास्तरान्त मोहाब्धि तरिष्यन्ति तथा न के ॥५॥ साधयेन्निर्मलं धर्मं निश्चयव्यवहारयोः । मर्यादामनतिक्रामन् दर्शकीभूतयुष्मयोः ॥ ६ ॥ द्रव्यपर्यायनययोः प्रमाणीकृतयुष्मयोः । स्थितो भूपसभे वादी जल्पन्नाप्नोति वैजयम् ॥७॥ युष्मच्छब्दबहुत्वान्यपदद्वित्वोक्तिभिः स्तुताएवं श्रीज्ञानसागरत्वं देयासुः सर्वसार्वा मे ॥८॥ इति युष्मच्छन्दबहुवचनबहुव्रीहिद्विवचनप्रयोगमयसाधारणस्तवः एष वा षष्ठः । ॥ अर्हम् ॥
रैवताचलशृङ्गारं भृङ्गारं ज्ञानवारिणः । श्यामलच्छायामिच्छामि श्रीनेमिं स्तोतुमादरात् ॥ १ ॥ शिष्यीभूयानुयूयं ये भव्यास्तेनात्र संशयः । सम्यग्दृक्त्वादभित्वांश्च भजन्ति त्रिदशाविशः॥२॥
प्रियत्वाभिर्नरैरुच्चैर्मुच्यते विषय स्पृहा ।
रुचिगोचरितत्वभ्यं न रोचतेऽन्यतीर्थिकाः ॥३॥ निरन्तराविस्मृतत्वन्नश्यन्ति सकलारयः ।