________________
युष्मच्छब्दनवस्तवी। ध्यानाधीनीकृतत्वाकं पादान्नमति विष्टपम् ॥४॥ नरेषु नायकत्वासु न स्याद्भवरिपोर्भयम् । एवं युष्मत्पदैकत्वान्यबहुत्वोक्तितो मया ॥५॥ श्रीमान् देवः शिवासूनुरानीतः स्तुतिगोचरम् । ब्रह्मविद्यामयं दद्यात् प्रसद्यात्मपदं मम ॥ ६ ॥ इति युष्मच्छब्दैकवचनान्यपदबहुत्वमर्भ: श्रीनेमिस्तवासप्तमः
॥ अर्हम् ॥ भवपङ्कपतज्जन्तुजातोद्धारधुरन्धरौ । स्तुवे जिनौ विदेहस्थौ सीमन्धरयुगन्धरौ ॥१॥ वामिताङ्कितयूयं याः प्रजास्ता भाग्यभाजनम् । भावेनोपासितयुवान स्तुवे सेवकपुङ्गवान् ॥ २ ॥ प्रथमं शिबिकारूढव्यूढयुवाभिभिस्तपस्यायाम् । इन्द्रेभ्योऽप्यखिलेभ्यः प्राधान्यं प्राप्यतेस्म खलु॥३ याचकेभ्योऽपि भद्रं स्ताद्वार्षिकत्यागपर्वणि । स्वहस्तदायकीभूतयुवभ्यं वाच्छिताऽवधि ॥४॥ प्रदक्षिणीकृतयुवत् केवलिभ्यो भवत्सभाम् । संश्रितेभ्यो विदुः स्पष्टं के न वैनयिकक्रमम् ॥५॥