________________
श्रीशान्तिनाथस्तुतिः। ४९ क्षोभि नक्षुब्धः इणो रूपंक्षुभ्संचलन इति धातोः॥ दृष्टान्तेन दृढयति । यदुत वात्याभिर्मेरुः शैलोऽक्षोभि कदापि नेत्यर्थः । वातानां समूहो वात्यास्ताभिः । कथं भूताभिर्वात्याभिर्मुलाभिः शब्दाय. मानाभिः। केन प्रायो बाहुल्येन कस्य वायोर्वातस्य वातप्रचुरत्वेनेत्यर्थः । प्रायइत्यव्ययत्वादर्थवशाद्विभक्तिपरिणामस्तेन तृतीया करणभूतेन । चेद् वातानां समूहो वात्या तदा वायुबाहुल्यमिति युक्तं न । युक्तमेव । यदुक्तं रघुकाव्ये सकीचकैर्मारुतपूर्णरन्धैरिति ॥ अथोत्तराई व्याख्याति ॥ ते ते सर्वज्ञा जिनेश्वरा द्रागऽचिरात् मे मह्यं सौख्यं यच्छन्तु ददतु । ते ते इति वीप्सायां पदं द्विः। दाण दानइति धातोर्यच्छादेशे रूपम् । कथं भूतास्तेते चिन्तारत्नप्रायाश्चिन्तामणिसदृशाश्चिन्तितार्थदायकत्वात्। केषां भव्यानां भव्यप्राणिनाम् । कथं भूतानां भव्यानां दीनानामलब्धज्ञानादिधनानाम् । कथं भूतं सौख्यं मुख्यं सर्वोत्कृष्टम्। पुनः कथं भूतं सौख्यं