________________
श्रीजैनधर्मवरसंस्तवनम् । र्यद्विग्रहं प्रशमयन्ति महानुभावाः ॥१६॥ . अर्चा समीक्ष्य सुतरामभयेन मुक्तां
मिथ्यात्वमाशु यदनार्यजनोऽप्यमुञ्चत् । आर्यस्तदादरभरः कुलजस्ततो नो
किं ना मनोविषविकारमपाकरोति ॥१७॥ सावद्यजोऽपि निरवद्यफलानुबन्धा
दर्चाविधिः सुमभरेण वरः पुरोगः। साध्योऽपि शब्दनिपुणैः किमु सिंहशब्दो
नो गृह्यते विविध वर्णविपर्ययेण ॥१८॥ नित्यं प्रसन्नवदनां महितां सुजैनी
द्रव्यैः शुभै रुचिल कल्पलतोपमानाम् । यः सेवते न मलिनो ह्यधनो भवेत्स __किंवा विबोधमुपयाति न जीवलोकः॥१९॥ जैनालया निजयशोनिचया इवैते
यैः संप्रतिप्रतिमराजगणैः सिताभः । उच्चैः कृताः शुचिरुचेऽद्भुतमत्र तैश्च ।
गच्छन्ति नूनमध एव हि बन्धनानि ॥२०॥