________________
श्रीभावप्रभसूरिविरचितम् हे आस्तिकास्त्यजत नास्तिकतां नितान्तं
चित्तोन्नतिं भजत लुम्पकता लुनीत । चैत्यं विधत्त शृणुत प्रविलोक्य तत्सद्
भव्या ब्रजन्ति तरसाप्यजरामरत्वम्॥२१॥ श्राद्धैरकारिषत भागवता विहाराः
थैर्दिग्गजैविणदानघनैरुदाराः । ये चात्र रक्षणपराः पतितं सृजन्ति
ते नूनमूहगतयः खलु शुद्धभावाः॥२२॥ चैत्यं सुवर्णभरितं भरतेन नव्यं
निर्मापितं कलितकेकिकलापशृङ्गम् । यद्वीक्ष्य मञ्जु दधति स्म मुदं हि मां__ श्वामीकरादिशिरसीव नवाम्बुवाहम॥२३॥ शत्रुञ्जयः शमधनाः शमता च शान्तिः
शत्रुञ्जयाह्वयतपः सकलं दुरापम् । एतच्छपञ्चकजुषोऽस्ति नरस्य या भा'
नीराग तां व्रजति को न सचेतनोऽपि॥२४॥ हस्तं हि हेतिविकलं विफलङ्कमङ्गं