________________
श्रीसोमसुन्दरसूरिविरचिता। सुलभं कृतपुण्यानां दुर्लभं पापिनां पुनः । युष्माकं सद्गुणावादलुब्धमाकं सुदर्शनम् ॥ ७ ॥ वागतिक्रान्तसौभाग्ययुष्मद्रूपकथास्वहो । अशक्तमासु सुत्रामादिमा अपि हि न क्षमाः ॥८॥ अस्मत्पदैकवचनान्यपदबहुत्वेन संस्तुता एवम् । मम ददतु शाश्वतजिनाःशाश्वतपदसंपदं सपदि ॥९॥ इति अस्मच्छब्दैकवचनबहुव्रीहिबहुवचनगर्भशाश्वत___ जिनस्तवः सप्तमः ।
॥ अर्हम् ॥ सूर्येन्दू सविमानौ वन्दनहेतोरितौ मुदा नुवतः । कौशाम्ब्यां समवसृतं श्रीवीरं चरमतीर्थकरम् ॥१॥ स्वतेजसा जितवयं चातूरूप्यभृतस्तव । धर्मचक्राणि चत्वारि दीप्यन्ते देशनाक्षणे ॥ २ ॥ आन्तराणि तमांसि त्वं भव्यस्वान्तगतान्यहो । अनीशतावानुच्छेत्तुं निर्णासियसि सर्वतः ॥ ३ ॥ स्वामिन्ननुकृतावाभि स्वद्भामण्डलैस्तव । चतुर्भिदेशनासद्मसदोद्योतं विराजते ॥ ४ ॥