________________
अथास्मच्छब्दरूपाङ्कितनवस्तवी १९ सएषोऽस्मद्बहुत्वेनान्यपदस्य च द्विवचनेन । स्तुतएवं जिनो देयान्निर्वाणे चरणे रतिम् ॥१०॥ इत्यस्मच्छब्दबहुवचनबहुव्रीहिद्विवचनगर्भो लोकान्तिकदेवविज्ञप्तिरूपः साधारणजिनस्तवःषष्ठः ।
॥ अर्हम् ॥ श्रीऋषभवर्द्धमानौ चन्द्राननवारिषेणसंज्ञौ च । शाश्वजिनेश्वरानिति नवीमि चतुरोप्यचतुरोऽपि ॥१॥ दूरस्थितवयं यूयं ध्यानेनासन्नतां गताः । प्रसीदत ममायोग्यस्याप्यचिन्त्यसुखार्पणात् ॥ २ ॥ अत्रस्थ एव वन्देहं साक्षाद्रष्टुमशक्तमान् । युष्मान्मानस एवेह व्यापारो हि सतां मतः ॥ ३॥ सम्पादनानलंभूष्णुमाभिः पुष्पादिकैर्जिनाः । मर्त्यलोकासम्भविभिः पूज्यध्वे सवर्दा सुरैः ॥४॥ दर्शनपूजनवन्दनसेवादिमनोरथोच्छ्रसितमभ्यम्। युष्मभ्यं भद्रं स्तात सनाप्यनाद्यन्तरूपेभ्यः ॥५॥ प्रत्यक्षाश्रितदेवेभ्यः परोक्षाश्रितमत्पुनः । युष्मद्भवेत्फलं तुल्यं सद्भावाद् उभयेष्वपि ॥६॥