________________
श्री सोमसुन्दरसूरिविरचिता ।
दीक्षासमयसमेता विज्ञप्तिं तन्वते मुदिताः ॥ १ ॥ अशक्तास्मां महाप्रज्ञावैभवेनापि केनचित् । स्तुतिपूजे विधातुं ते न शक्येते कदाचन ॥२॥ गुणैौर्वस्मायितास्मां त्वद्यतिसाध्वीजनौ कदा | प्रणस्यामस्तवोपास्ति कुर्वाणौ वह्निदिस्थितौ ॥३॥ निजगुणगणैरधरितास्माभ्यां सुस्त्रैणपौंस्नवर्गाभ्याम् । सद्देशविरतिमद्भ्यां कदा विभास्यति सभा भवतः ॥४॥ कदाचान्तर्गतास्माभ्यां त्वद्द्व्याख्याक्षिप्तचेतसाम् । नरामराणां वृन्दाभ्यां न सुधाऽपि स्वदिष्यते ॥५॥ तवेशदेशनाभ्यां द्विर्दिने केनेह देहिनः । प्रीतास्माभ्यां प्रपत्स्यन्ते सम्यक्त्वचरणादिकम् ॥६॥ निशादिवससंबन्धिप्रतिक्रमणयोः क्रियाः । अत्यस्मयोः कदा देव भवान् प्रादुष्करिष्यति ॥७॥ ध्यानयोर्दुर्गतिक्षिप्तास्मयो रौद्रार्त्तयोर्विभो । वर्त्तमानं जनं भव्यं निवर्त्तय दयानिधे ||८|| जय त्वं नन्द भद्रं ते धर्मर्थं प्रवर्तय । इत्यादिवचनैर्लोकान्तिकाः संशन्ति यं विभुम् ॥ ९ ॥
१८