________________
अथास्मच्छब्दरूपातनवस्तवी १७ मूढावाभ्यामनिशं रागरुषाभ्यां जगज्जनमशेषम् । पीडितमवतामेनं प्रभूभवन्तौ दयावन्तौ ॥४॥ स्वायोग्यतया तादृग्विशिष्टकालेऽपि दूरितावाभ्याम्। अनिमित्तवत्सलाभ्यामपि विज्ञपयावहे किमु वाम्॥५॥ मिथ्यात्वमहाभोधेर्निजागमप्रवहणार्पणादधुना । तीरानीतावाभ्यां परो युवाभ्यां कृपावान् कः ॥६॥ ऋजुवक्राज्ञयोर्योग्यं युवामन्तरगतावयोः । विधिपञ्चव्रतीमुख्यं दिशन्तौ न कथं हितौ ॥७॥ आद्यन्तयोश्चतुर्थारस्यानुचितावयोर्विमुक्तिपथे । स्तुवहेऽपि भवद्भ्यां नौ सिद्ध कार्य न किं कुर्व॥८॥ इत्यानन्दपुरुस्थौ श्रीमन्नाभेयवीरतीर्थपती । स्तुत्वा कौचित् श्राद्धावार्जिजता दम्पती पुण्यम्॥९॥ अस्मत्पदान्यपदयोर्दिवचनगर्भस्तवेन नुतिविषयम् । नीतौ जिनाविति मम प्रयच्छतां स्वच्छता मनसः॥१०॥ इत्यस्मच्छन्दबहुव्रीहिद्विवचनगर्भः ऋषभवीरस्तषः ।
॥ अर्हम् ॥ लोकान्तिकनाकिवरा जिनपुरतो मौलिमिलितभूमितलाः