________________
७८ श्रीजयानन्दसूरीश्वरविरचितः । निःकौशांबिः ५१ अन्तर्गाय॑स्य अन्तर्गार्ग्यः ६१ प्राचार्यादयो नित्यसमासाः अस्वपदविग्रहत्वात् कुंभ करोतीति कुम्भकारः इति कृदन्तेन तत्पुरुषः नगौः अगौरिति नञ्तत्पुरुषः इत्यादिविशेषो ज्ञेयः। उक्तस्तत्पुरुषः । अथ कर्मधारयलक्षणं । अन्तरस्थाभ्यां अदस्तच्छब्दाभ्यां द्वाभ्यां चकाराभ्यां विशेषणैस्सह विशेष्यं कर्मधारयः समस्यते। उत्तरपदप्रधानः कर्मधारयः। पूर्व विशेषणपदं अग्रे विशेष्यपदं त्रिषुलिङ्गेषु । चहे रक्षाक्षम त्वं प्रौढप्रसादं कुरु हे मुनीश त्वं सौम्यदृष्ट्या विलोकय हे अनन्तज्ञान त्वं स्त्रीयवचो देहि प्रौढश्चासौ प्रसादश्च प्रौढप्रसादस्तं प्रौढप्रसादं इति पुंलिङ्गेन १ सौम्या चासौ दृष्टिश्च सौम्यदृष्टिस्तया पुंवद्रावइति म्याम्य इति स्त्रीलिङ्गेन २ स्वीयं चतद्वचश्व स्वीयवचस्तत् इति नपुंसकेन कर्मधारयः ३ । अथ बहुव्रीहिः । प्रायोविशेषणैर्विशेष्यं यच्छब्देन समस्तः सन् अन्य विशेषणं यत्र भवेत्सोयं समासो बहुव्रीहिः । प्रायो बहुव्रीहिरन्यपद