________________
साधारणजिनस्तवः । ७७ संसारभीतं जगदीश दीनं ___ मारत रक्षाक्षम रक्षणीयम् । प्रौढप्रसादं कुरु सौम्यदृष्ट्या
विलोकय स्वीयवचश्च देहि ॥३॥ संसारभीतं २१ जगदीश ११ दीनं २१ मा २१ रक्ष रक्षाक्षम ११ रक्षणीयं२१ प्रौढप्रसाद२१ कुरु सौ म्यदृष्ट्या ३१ विलोकय स्वीयवचः २१ च ११ देहि। व्याख्या। हं जगदीश हे रक्षाक्षम ! त्वमिति शेषः मां रक्ष किं लक्षणं मां संसारभीतं पुनः किं ल• मां दीनं पुनः किं. मां रक्षणीयं संसाराहीतः संसारभीतः तं इति पञ्चमीतत्पुरुषः जगतामीशो जग. दीशस्तस्य सम्बोधनं इति षष्ठीतत्पुरुषः रक्षायां क्षमो रक्षाक्षमस्तस्य सम्बो इति सप्तमी तत्पुरुषः उत्तरपदे सप्तमी विना सर्वा विभक्तयो यथा प्रगत आचार्यः प्राचार्यः ११ अतिक्रान्तः खट्वां अतिखट्वः २१ अवक्रुष्टः कोकिलया अवकोकिलः ३१ परिग्लानो अध्ययनाय पर्यध्ययनः ४१ निर्गतः कौशांब्याः