SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्रीमहावीरस्तवनम् । १०१ पासकाः स्युः किं कृत्वा स्वरायं संगृह्य स्वराः शब्दाः तेषां आयः लाभः तं गृहीत्वा शब्दज्ञानं ज्ञात्वा इत्यर्थः तेषां मध्ये ये पठितमूर्खाः ते विराधकाः ये च पण्डित पण्डिताःते आराधकाः “शब्दब्रह्मणि निष्णातः परब्रह्माधिगच्छति"इति वचनात् अथवा खरायमितिपदस्य द्वितीयमर्थमाह स्वं निजरायं द्रव्यं संगृह्य तपोयोगशमादिकं धर्मिजनानां द्रव्यं तत् गृहीत्वा, यदुक्तं हैमकोषे “निर्ग्रन्थो भिक्षुरस्य स्वं तपोयोग शमादय" इति। अत्र किं भिन्नत्वं तत आह हे वीर जिनपर्युपास्तेः त्वादृशजिनानां सेवायाः द्रव्यभाव भेदपूजायाः सकाशात् कथंभूतायाः जिनपर्युपास्तेः कृतायाः निर्मापितायाः कया शुद्धधिया निर्मलबुद्ध्या तस्याः सकाशात् हेतोः तदन्तरं तेषां भिन्नत्वं वर्त्तते इति अत्र लुम्पकादिमतमपि निरस्तमिति ॥ ५॥ अथाशीीरेण वीरप्रसादं स्तौति । यावन्तः सन्ति विख्याता अवर्जा नामिनः प्रभो।
SR No.006111
Book TitleJain Stotra Sangraha Part 01
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy