SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्रीमहावीरस्तवनम् । वर्षपर्यन्तं तपः सामि वर्ष पाण्मासिकं तपः चक्राते इत्यन्वयः। सामि इति खण्डार्थ अव्ययं ऋषभस्य वार्षिकं वीरस्य पाण्मासिकमिति भक्तियुक्तः अर्हन्तौ जिनौ नित्यं वन्दे इत्यन्वयः। कथं भूतौ तौ विश्वाधीशौ त्रिजगत्स्वामिनौ पुनः कौ एतौ जनानां वन्दनीयौ इति स्पष्टम् ॥ ७ ॥ अथ वीरवाचां वर्णयति। भूयासीहाऽनेहसा व्यञ्जनानि भुक्त्वा भुक्त्वा भूयसा नैव तृप्तिम्। याता जीवास्तत्प्रभो तावकीनां श्रुत्वा वाचं वीतरागा बभूवुः॥८॥ भूयासी इति । इह संसारे जीवाः प्राणिनः भूयसा अनेहसा बहुना कालेन व्यञ्जनानि भुक्त्वा भुक्त्वा तृप्तिं सन्तुष्टिं नैव याताः न प्राप्ता इत्यन्वयः। व्यञ्जनानि इति कोऽर्थः अन्नपूर्वकं व्यञ्जनं भवति अतः अन्नानि शाल्यादीनि व्यञ्जनानि
SR No.006111
Book TitleJain Stotra Sangraha Part 01
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy