________________
१०४
श्रीपार्षचन्द्रकृतं
शाकानि भुक्त्वाऽऽयं योज्यम् । अथ द्वितीयो. ऽर्थः । वि इति। विशिष्टाने अञ्जनानि कज्जलानि नेत्रेषु येषां तानि व्यञ्जनानि कलत्राणि विशेषणशक्त्या विशेष्यः प्रतीयते तानि भु. पूर्ववत । अथ तृतीयोऽर्थः । वि इति । विविधानि च तानि अञ्जनानि च पुण्यापुण्यकर्माणि भु. पूर्ववत् । हे प्रभो तत् तस्मात्कारणात् ते प्राणिनः तावकीनां तव इयं तावकीना तां तव वाचं श्रुत्वा वीतरागाः सहजसन्तुष्टाः बभूवुः ॥ ८॥
अथ वीतरागखरूपस्य दौर्लभ्यमाह । स्वामिन् मे सर्वपापानां कार्यायेत्संज्ञया समम्। जायते यदि सामर्थ्य त्वत्स्वरूपं लभेत्तदा ॥६॥
हे वीर हे स्वामिन् मे मम सर्वपापानां सामर्थ्य कर्तृपदं कार्याय कार्य कृत्वा इत्संज्ञया समं तुल्यं यदि जायते सम्पद्यते एति कार्य कृत्वा गच्छतीति इत् तस्य संज्ञा तया समं कार्यादनन्तरं पापानां सामर्थ्य