________________
श्रीमहावीरस्तवनम् । १०५ विलयं याति अनुबन्धरहितं खरूपहिंसात्वात् इत्यर्थः अथवा ऽत्र प्रतिलोमार्थोऽपि यतः सर्वपापानां कार्याय मे मम सामर्थ्य यदि इत्संज्ञया समं जायेत कार्य कृत्वा सामर्थ्य नष्टं परिणामशीलत्वेन बन्धाभावात् इत्यर्थः तदा मल्लक्षणो जनः त्वत्स्वरूपं लभेदिति स्वामिन् मे इत्यत्र सम्बोधनपदाग्रे आदेशश्चिन्त्यः ॥ ९॥ अथ जिनस्य लोकोत्तरवैद्यत्वं दर्शयति ।
आमाः शृण्वन्तु मोहाद्या अरेदोन्नामिनो गुणः। यथाऽयुर्वेदिनो जन्तोस्तथा वीरो मयेक्षितः ॥१०॥ __ आमा इति।अरे मोहाद्याः आमाः रोगाः भवन्तः शृण्वन्तु यथा आयुर्वेदिनः वैद्यात् जन्तोर्जीवस्य गुणः नीरोगलक्षणो गुणो भवति, कथं भूतस्य जीवस्य । अरेदो इति।अरे इति पीडया शब्दं ददाति भाषितः सन् प्रत्युत्तरं जल्पति इति अरेदः रोगयुक्तः उत् उर्दू नमति इत्येवं शीलः उन्नामी प्रबलपीडया उच्छल