________________
९२ श्रीजयानन्दसूरीश्वरविरचितः । वत्सु क्षेमेषु वृक्षत्सु किंलक्षणस्त्वं हितः क इव पितेव पुनः किंलक्षणस्त्वं दुरापः किमिव अमृतमिवामृतवत् वृक्षा इवाचरन्तीति वृक्षन्ति अत्र पूर्वोक्त आचारेऽर्थे कि वर्तमाना अन्ति वृक्षन्तीति सिद्ध वृक्षन्ति अत्र पूर्वोक्तः शतप्रत्ययः वृक्षत्१३ नपुंसके वृक्षान्त तेषु वृक्षत्सु घन इवाचरमि घनायसे अत्र पूर्वोक्त आचारेऽर्थे क्यन् घन क्यन वर्तमाना से दीर्घश्च धनायसे इति सिद्धं घनायसे इति धनायमानः अत्र पूर्वोक्त आनश्प्रत्ययः पिता इव पितेव अत्र इवप्रत्ययः उपमानार्थे इववतौ प्रत्ययौ भवतः अमृतमिवामृतवत् अत्र बत्प्रत्ययः दुःखेनाप्यते प्रा. प्यते इति दुरापः अत्र खल् प्रत्ययः दुपूर्वः आ. प्लंट् व्याप्ती खल् दुरापः अतिशयेन भव्यो भव्यत. रस्तं भव्यतरं अत्र तर प्रत्ययः प्रकृष्टेऽर्थे तरतमौ प्रत्ययौ भवतः अस्वभृत्यस्य स्वभृत्यस्य भवनं स्व भृत्यीभावस्तं स्वभृत्यीभावं अत्र विप्रत्ययः भवनं भावः अत्र भावे घञ्प्रत्ययः कृधातुयोगे कर्मणि