SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्री विनय विजयोपाध्यायविरचिता नामस्थापनाद्रव्याणि न मन्यते तेषां परकीयत्वादनुत्पन्नविनष्टत्वाच्च तत्र नाम वक्तुरुल्लापरूपं वा गोपालदारकादिषु गतमिन्द्राभिधानं परकीयं स्थापना चित्रपटादिरूपा परकीया द्रव्यं पुनर्भाविभावस्य कारणं तच्चानुत्पन्नं भूतभावस्य कार गं तु विनष्टं एवमग्रेतनाः शब्दादयस्त्रयो नयाः भावनिक्षेपमेव स्वीकुर्वन्तीत्यर्थः ॥ १३ ॥ ६६ अर्थ शब्दनयोऽनेकैः पर्यायैरेकमेव च । मन्यते कुम्भकलशघटाद्येकार्थवा चकाः ॥ १४ ॥ शब्दनामा नयः शब्दः पुंस्त्रीनपुंसकाद्यभिधायकोल्लापस्तत्प्रधानों नयः शब्दनयः स अनेकैः शब्द पर्यायैरुक्तोऽपि अर्थ वाच्यं पदार्थमेकमेव मन्यते कुतः हि यस्मात् कुम्भः कलशो घटः एते शब्दाः सर्वदर्शिभिर्जिनैरेकस्य घटाख्यपदार्थस्य वाचकाः कथितास्ततः सिद्धमने कैः पर्यायैरुक्तोऽन्यभिधेय एक एवेत्यर्थः ॥ १४ ॥
SR No.006111
Book TitleJain Stotra Sangraha Part 01
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy