SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ नयकर्णिका। तथा निजं स्वकीयं च भावं वस्तुतया मन्यते कार्यकारित्वात् ॥११॥ __ अतीतेनानागतेन परस्कीयेन वस्तुना। न कार्यसिद्धिरित्येतदसद्गगनपद्मवत् ॥ १२॥ कस्मादेवमित्यत आह॥ अतीतो विगतो भावस्तेन अनागतो भविष्यमाणो यो भावस्तेनापि परस्कीयो यथा सामान्यनरस्य पूर्वतनो वा भविष्यत्पुत्रजीवोऽधुना राजपुत्रत्वं प्राप्तः परं सःपरस्कीयस्तेन वस्तुना जिनैः कार्यसिद्धिर्नोक्ता इति कृत्वा एतदतीतानागतपरकीयपर्यायरूपं वस्तु गगनपद्मवदाका. शारविन्दवदसदविद्यमानं मन्यते ॥ १२ ॥ नामादिषु चतुर्वेषु भावमेव च मन्यते। न नामस्थापनाद्रव्याण्येवमग्रेतना अपि ॥ १३॥ अयं ऋजुसूत्रनयः एष्वनन्तरवक्ष्यमाणेषु चतु. र्षु निक्षेपेषु एकं भावनिक्षेपमेव वास्तवं मन्यते
SR No.006111
Book TitleJain Stotra Sangraha Part 01
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy