________________
॥ अर्हम् ॥ श्रीकुमारपालभूपालविरचितं
साधारणजिनस्तवनम् । नम्राखिलाखण्डलमौलिरत्न- रश्मिच्छटापल्लवितांहिपीठ । विध्वस्तविश्वव्यसनप्रबन्ध
त्रिलोकबन्धोजयताजिनेन्द्र ॥१॥ मूढोऽस्म्यहं विज्ञपयामि यत्त्वा
मपेतरागं भगवन् कृतार्थम् । नहि प्रभूणामुचितस्वरूप
निरूपणाय क्षमतेऽर्थिवर्गः ॥२॥ मुक्तिं गतोऽपीश विशुद्धचित्ते __ गुणाधिरोपेण ममासि साक्षात् । भानुदेवीयानपि दर्पणेशु____सङ्गान्न किं द्योतयते गृहान्तः ॥ ३ ॥ तव स्तवन क्षयमङ्गभाजां