________________
२६ श्रीलक्ष्मीसागरसूरिविरचितम् । प्राश्चत्कल्पलता सतामनुचिता चिन्तामणौ नादरः। स्वामिन् कामगवी न वीक्षणपथे सञ्जायते कर्हिचित चिन्तातीतफलप्रदाननिपुणत्वत्पादपद्मात् पुरः ॥८॥ ये त्वां ध्यानपथं कथश्चन नयेच्चेतस्तदेवोत्तमम् धन्याऽसौ रसना सना तव गुणग्रामस्तुतौ सादरा । ये त्वद्रूपनिभालनैकरसिके नेत्रे पवित्रे नृणाम् श्रीशत्रुञ्जयभूधरैकमुकुट श्रीपुण्डरीक प्रभो ॥९॥ श्रीमत्केवलबोधदर्पणतले सङ्क्रान्तलोकत्रयम् हस्तन्यस्तविशुद्धमौक्तिकमिवाबाभाति यस्येशितुः । स्वाह्वानस्मरणाकृतां भवभृतां संसारवारांनिधेः स्वामी तारयताद्धताऽन्तररिपुःस श्रीगणाधीश्वरः॥१०॥ इत्थंकारमुदारसारकविता प्राग्भारमारभ्यते नीत्वा स्तोत्रपथं कथंचन गुणान् चन्द्रोज्ज्वलान् भक्तितः लक्ष्मीसागरसूरिसंस्तुत मया श्रीपुण्डरीक प्रभो संप्रायेंत भवे भवे तव पदाम्भोजन्मसेवासुखम्॥११॥
इति श्रीपुण्डरीकस्तवनम् ।