________________
श्रीपुण्डरीकगणधरस्तवनम् २५ प्राववानमयोऽपि दुस्तरभवाम्भोधौ निमज्जज्जनश्रेणीतारणकारणं समभवत् शत्रुञ्जयाख्यो गिरिः। तत्सर्व तव पादपद्मयुगलीमाहात्म्यविस्फूर्जितम् श्रीमन्नादिजिनेशवंशजलधिप्रोल्लासशीतद्युते ॥४॥ केषां न स्पृहयालुता दिविषदां नेत्राय सञ्जायते येन प्रोज्वलयन्मुखाम्बुजलसत्सौभाग्यमालोक्यते । मेषोन्मेषविवर्जितैरविरतं भव्याङ्गभाजां भरैः श्रेयःश्रणिरमां स मांसलयतात् श्रीपुण्डरीकप्रभुः॥५॥ जात्यस्वर्णसवर्णवर्णवपुषा कैवल्यमासेदुषा संप्राप्य त्रिपदीमदीनमहसा श्रीमयुगादीश्वरात् । चक्रे येन चतुर्दशाऽपि विलसत्पूर्वाणि साङ्गान्यपि श्रमिानाद्यगुरूत्तमः शमयताद्वस्तापमाऽऽपत्ततेः ॥६॥ प्राहुर्बुद्धिधनास्त्वदीयचरणोपास्तेः समस्ताङ्गिनो नूनं त्वत्सदृशा भवेयुरिति यत्तत्सत्यमाभाति नः । यस्मादेष महीधरोऽपि समभूत् श्रीपुण्डरीकाह्वयः संसारार्णवतारणैकनिपुणत्वत्पादसंस्पर्शतः ॥७॥ अल्पः कल्पतरुः स कामकलशो न स्यात् शिवस्यास्पदम्