________________
॥ अहम् ॥ श्रीपार्श्वचन्द्रविरचितं श्रीमहावीरस्तवनं श्रीभावप्रभसूरिकृतटीकासहितम् ।
श्रीगुरुभ्यो नमः। स्तुत्यं सारखतं बीजं बीजं सज्ञानसम्पदाम् । नयाम्यहं स्तुतेर्मार्ग मनोमन्दिरदीपकम् ॥१॥ कविना पार्श्वचन्द्रेण वीरस्तोत्रमकारि यत् । सारस्वतस्य संज्ञाधिकारसूत्रपदाङ्कितम् ॥२॥ श्रीपूर्णिमागणाधीशः श्रीभावप्रभसूरिराट् । कुर्वे तस्याधुना टीकामार्थिशिशुयाञया॥३॥
तत्राद्यपद्ये कविर्महावीरजिनमाभिष्टौति । कल्याणमालामणिसन्निधानं
श्रीगौतमाद्यैर्मुनिभिः प्रधानम् । यशोगुणैः संप्रति वर्धमानं
स्तवीमि भक्त्या जिनवईमानम्॥१॥ कल्याणेति । व्याख्या । अहं पार्श्वचन्द्रनामा