SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रीपार्थचन्द्रकृतंलोकाः जनाः अइउलसमानाः अकारादिभिः पञ्चभिः स्वरैः सदृशाः सन्ति इत्यन्वयः । एतत्सा दृश्यं विशेषणद्वारा स्पष्टयति किं लक्षणाः लोकाः। अघनेति। न धनाः अघनाः स्तोकाः सरलभूताः ऋजुप्रायाः येषु ते अथवा सरलाः ऋजवः भूताः जीवाः येषु ते अकारादिस्वरपञ्चकपक्षे अघनः स्तोक एक एव अकारः सरलप्रायो येषु ते पुनः किं लक्षणाः लोकाः । वक्रेति । वक्रभावाः अनृजुस्वभावाः प्रभूताः बहवो येषु ते अकारादिवरपश्च. कपक्षे एकेन अकारेण वर्जिताः सर्वेऽपि इकारादिचतुःस्वराः वक्रभावाः बहवो येषु ते इति स्थितं हि इति निश्चितम् ॥इह कलिकाले तेन वक्रादिभावेन हेतुना तुच्छाः अगभीराशयाः एवं विधास्ते प्रसिद्धाः प्रचुरतरविशः बहुतराः पुरुषाः प्राभवं शुद्धमार्ग कथं लभन्ते अपि तु न प्राप्नुयुः प्रभोः जिनस्य अयं शुद्धमार्गः प्राभवः तं जैनं शुद्धमार्ग. मिति नु इति वितर्के अत्र किं चित्रं आश्चर्य न किमीत्यर्थः ॥२॥
SR No.006111
Book TitleJain Stotra Sangraha Part 01
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy