SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ७. श्रीविनयविजयोपाध्यायविरचिता ___ अथ चेत् यदि । एवम्भूतसमभिरूढयोः एवं. भूतश्च समभिरूढश्च तौ तथा तयोईयोः शब्दे शब्दनयेऽन्तर्भावो भवेत् तदा एवेत्यवधारणात् पञ्च नया भवन्ति तदा पञ्चशतीतिभिदः पञ्चानां शतानां समाहारः पञ्चशती भिद्यन्ते आभिस्ता भिदः पञ्चशती चता भिदश्चेति तथा नयानां भवन्तीत्यर्थः॥२०॥ द्रव्यास्तिकपर्यायास्तिकयोरन्तर्भवन्त्यमी । आदावादिचतुष्टयमन्त्येचान्त्याऽस्त्रयस्ततः ॥२१॥ - अमी सप्तापि नयाः द्रव्यास्तिकपर्यायास्तिकयोरन्तर्भवन्ति द्रव्यमेवास्तितया प्ररूपयन् द्रव्यास्तिकः पर्यायं भावमेवास्तितयाऽभिदधत् पर्यायास्तिकः द्रव्यास्तिकश्च पर्यायास्तिकश्च तौ तथा तयोईयोर्मध्येऽन्तर्भवन्त्यवतरन्ति आदौ द्रव्यास्तिके आदिचतुष्टयं नैगमादिचत्वारो भवन्ति अन्ते भवोत्यस्तस्मिन्नन्त्ये पर्यायास्तिके अन्त्यास्त्रयः शब्दाद्याः भवन्तीत्यर्थः ॥ २१॥ सर्वे नया अपि विरोधतो पिथस्ते
SR No.006111
Book TitleJain Stotra Sangraha Part 01
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy