________________
नयकर्णिका। विषयीक्रियते किमत्रापराधः यथा स्वार्थक्रियामकुर्वाणो घटो घटत्वव्यपदेशभाग्भवति तथा घटक्रियाऽभाववत्पटोऽपि घटो भवतु खकार्यकरणाभाव उभयत्रापि समानत्वादित्यर्थः ॥ १८॥ ___यथोत्तरविशुद्धाः स्युर्नयाः सप्ताप्यमी तथा। एकैकः स्याच्छतं भेदास्ततः सप्तशताप्यमी ॥ १६ ॥
अमी साक्षादुक्तपूर्वाः सप्तापि सप्तसंख्याका अपिः समूच्चयार्थः नयाः यथोत्तरविशुद्धाः यथा २ उत्तराः उपर्युपरिवर्त्तते तथा २ विशुद्धा ये ते यथोत्तरविशुद्धाः स्युर्भवन्ति। तथा एकैकः एकश्च एकश्च एकैकः नयः शतं शतप्रमाणं भेदः । प्रकारदः स्याद्भवति । ततो अमी नयाः सप्तशतसंख्याका अपि भवन्तीत्यर्थः ॥ १९॥ __ अथैवंभूतसमभिरूढयोः शब्दएव चेत्।अन्तर्भावस्तदा पञ्च नयपञ्चशतीभिदः ॥ २० ॥