________________
श्रीविनयविजयोपाध्यायविरचिता
एकपर्यायाभिधेयमपि वस्तु च मन्यते । कार्य स्वकीयं कुर्वाणमेवंभूतनयो ध्रुवम् ॥ १७ ॥
एवम्भूतनामा नयः एकपर्यायाभिधेयमपि एकएव यः पर्यायः शब्दः स एकपर्याय एकशब्दस्तेनाभिधेयमपि वस्तु वाच्यम्। च पुनः विद्यमानं भावरूपमपि ध्रुवं निश्चयेन स्वकीयमात्मीयं कार्यं निजार्थक्रियां कुर्वाणं पश्यति तदैव तद्वस्तु वस्तुवन्मन्यते नान्यदा अर्थक्रियाकारि सदिति जिनोपदेशो वर्त्तते अतो यत् स्वार्थक्रियाकारि तदेव वस्त्वित्यर्थः ॥ १७॥ यदि कार्यमकुर्वाणो ऽपीष्यते तत्तया स चेत् । तदा पटेऽपि न घटव्यपदेशः किमिष्यते ॥ १८ ॥
६८
यदि स पदार्थस्तदा तस्मिन् काले कार्यमकुर्वा - णोऽपि स्वार्थक्रियामकुर्वन्नपि चेत्तत्तया वस्तुतया इष्यते ऽभ्युपगम्यते भवान् तर्हि पटेऽपि घटव्यपदेशो घटशब्दवाच्यता कथं नेष्यते कस्मान्न इच्छा