________________
श्रीजैनधर्मवरसंस्तवनम् । ४५ शुद्धात्मदर्शनमहो शुभभावयोगात् । इत्युक्तिलेशकथकस्य ममैधि नाथ
स्वामी त्वमेव भुवनेऽत्र भवनान्तरेऽपि ॥४२॥ त्रैलोक्यरूपविषये सुपरीक्षणेऽत्र
बिम्बं त्वदीयमतुलं नयनामृताभम् । कर्मापहारि हृदयाम्बुरुहे निघाय
ये संस्तवं तव विभोरचयन्ति भव्याः ॥४३॥ राकागणश्वरनिभास्तेजःपुर्जरतीव पुण्याढ्याः । तेऽनन्तसुखसमेता अचिरान् मोक्षं प्रपद्यन्ते ॥४४॥
॥ युग्मम् ॥ भावप्रभाख्यवरसूरिंगणाधिपेन
श्रीजैनधर्मवरसंस्तवनं सुरम्यम् । शिष्यस्य कौतुककृते रचितं सुबोधं कल्याणमन्दिरसदन्तिमपादलमम् ॥४५॥ इति जैनधर्मवरसंस्तवनम् ।