SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्रीशान्तिनाथस्तुतिः | ४७ विश्वानां जगत्रयाणां आधारआधेयोपचारात् तन्निवासिजन्तूनामित्यर्थः । विश्वानामिति जगद्वाचकविश्वशब्दस्तु न सर्वादिगणसत्कः तेन कुलवद्रूपाणि । कथं भूतानां विश्वानां सर्वेषां समस्तानाम् । पुनः कथं भूतं तं शान्ति भारवन्तं देदीप्यमानं ज्ञानाद्यऽन्तरायाभावात्। कथमत्यन्तं अतिशयेनेति । पुनः कथं भूतं शान्ति श्रीमच्छान्ति श्रीर्विद्यतेऽस्या इति श्रीमती एवं विधा या शान्तिरामयाद्युपशान्तलक्षणा यस्मात् स श्रीमच्छान्तिस्तं श्रूयते हि भगवज्जन्मजात जनपदे रोगोपशान्तिर्जातेति । अथवा श्रीमती शान्तिर्यस्मिन् सर्वकर्मक्षयादिति तम् ॥ तोष्टोमीति यङ्लुङि ष्टुञ् स्तुताविति धातो रूपम् ॥ अथ पूवार्द्ध व्याख्याति ॥ यत्तदोर्नित्यसम्बन्धस्तं कमिति । यः शान्तिरर्हन् सारङ्गं मृगलक्ष्ममिषसारङ्गं मृगमिति लक्षणागम्यं अरक्षदित्यन्वयः । कथं स्पष्टं प्रकटं यथा भवति तत् । कथंभूतं सारङ्गं भीतं भीतप्राप्तं कस्मात् व्याघ्रात् सिंहात कस्यां भूमौ पृथि
SR No.006111
Book TitleJain Stotra Sangraha Part 01
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy